आर्यादिवत् प्रवेशः किं न वक्त्रापरवक्त्रयोः ।
भेदश्च दृष्टो लम्भादिराश्वासो वास्तु किं ततः ॥ २७ ॥

वक्त्रं चापरवक्त्रं च पद्यद्वयं सहाश्वासेन वर्त्तते तद्भावः तत्त्वम् । तच्चैतत् त्रयम् आख्यायिकायाश्चिह्नं लक्षणं भेदकं कथायाः सकाशाद्विशेषकं चाप्यस्यास्य कथायामभावादितिचेन्मन्यसे, ननु यतः [प्रसङ्गेन] तत्र गद्याधिकारात् प्रस्तावेन भाव्यर्थसूचनादिलक्षणेन हेतुभूतेन नाधिकारितया वक्त्रापरवक्त्रयोः कथास्वपि आख्यायिकावत् किं कस्मान्न प्रवेशः न प्रयोगः स्यादेवेत्यर्थः । किंवत् ? आर्यादिवत् । 19 आर्यादेरिव यथाप्रस्तावमन्यस्यापि पद्यस्य न स्तवादेः प्रवेशादिग्रहणम्, त्रयाणामपि पद्यत्वेनाविशेषादयमपि नियमो नास्तीत्यर्थः । तथाहि यदि तादृशः प्रस्तावः स्यात्, तदा कथास्वपि अनयोः प्रभेदो न दुष्यति, यथा आ12a र्यादेः । आख्यायिकायामपि हि प्रसङ्गेन तयोः प्रवेशः नाधिकारितया, [तत्र] गद्याधिकारात् तथा कथायामपि इति नेदं भेदकमसाधारणं चि[न्तनीयम् । लम्भ]स्तर्हि भेदकं चिह्नमस्तु कथायां तस्याभावात् । अत्राह—भेदश्चेत्यादि । लम्भादिर्भेदो विशेषः । आदिग्रहणात् यव[?]विश्रामादिव्यवहारः आख्यायिकाविषयः [कथायाम]पि दृष्टः । ततश्चाश्वासोऽपि यदि भवेत् को नामात्र दोषः । लम्भादिर्वा भेदो भवतु, आश्वासो वा व्यवहारः, किं ततः तस्माद् व्यवहारमात्रात्, किंजातीयत्वमनयोर्भवेत् । नैवार्थभेदः, अभेदादित्यर्थः । परिच्छेदा हि तत्र सम्पन्नाः कर्तव्या इतीदमत्र तात्पर्यम्, विपन्नानां हेयत्वात् । ते च लम्भादिव्यपदेश्या वा भवन्तु, आश्वासव्यवहार्या वेति स्वातन्त्र्यमत्र कवेः, विशेषाभावात् ।

ननु भामहकृतो निषेधोऽस्ति ।न वक्त्रापरवक्त्राभ्यां युक्तो नाश्वासवत्यपि ।31 कथेति ।

  1. काव्यालङ्कारे १. २८