21 यत्र तर्हि कवेरभिप्रायेण कथनमङ्कनं किञ्चिद् दृश्यते सा आख्यायिका तदन्या कथेति भामहः ।कवेरभिप्रायकृतैरङ्कनैः कैश्चिदङ्किता इति ।34 तदेतदुभयं परिहरन्नाह—

कविभावकृतं चिह्नमन्यत्रापि न दुष्यति ।
मुखमिष्टार्थसंसिद्धौ किं हि न स्यात् कृतात्मनाम् ॥ ३० ॥

कवेः प्रयोक्तुर्भावेनाभिप्रायेण कृतं प्रयुक्तं चिह्नमङ्कनम् अन्यत्रापि कथायामपि सर्गबन्धेऽपि वा, न केवलमाख्यायिकायाम् न दुष्यति न दोषाय कल्पते निषेधाभावात् ।

ननु निषिद्धमेव [तद्] भामहेन कथायाम्, आख्यायिकामेव कबिभावकृतचिह्नविधानात् । उक्तमत्र । तेनापि च नियमो न कृतः काचिदङ्कितेति वचनात् । तस्मादिदमपि सर्गबन्धादिसाधारणं न समर्थयति कथात आख्यायिकाया भेदम् । किरातादौ च लक्ष्म्या ग्रहणादिकं कविभावकृतं चिह्नं दृश्यते, स्यादेतत् आख्यायिकायामिति । तदसत् । यस्मान्मुस्वमिष्टार्थसंसिद्धौ किं हि न स्यात् कृतात्मनाम् । कृतः संस्कृतः व्युत्पन्न आत्मा चित्तं येषां, कृतात्मनां सुधियाम् । इष्टस्यार्थस्य स्वनामाङ्कनादेरन्येनापदेशेन विदग्धेन क्रमेण किं नाम मुखमुपायो न स्यात् । सर्वमेव हि तेषामिष्टसिद्धिद्वारीभवति कौशलविशेषात् । तस्माद् यदीच्छन्ति कथायामन्यत्र वा सर्वत्रेदृशं कर्तुमुपायज्ञास्ते [कु]र्वन्त्येव, न चेत् न क्वचिदपीति । नेदमपि भेदकं चिह्नम् । तस्मा13b देतदेव स्थितम्—तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता इति ।35 स्यादेतत्, आख्यायिका संस्कृतेनैव दृश्यते । आख्यायिकापि भाषान्तरेण दृश्यते, असंस्कृतापेक्षयेति । किं न कथा । अथ संस्कृतापेक्षया भाषान्तरेण [न] दृश्यते आख्यायिका सर्वसंस्कृता कथाप्येवमिति माभूत् कथा । अथ मिश्रापि कथा दृश्यते नाख्यायिका । तथा अमिश्रा सर्वसंस्कृता साख्यायिका स्यात्, कादम्बर्यादिवत् ।22 कथं तर्हि आख्यायिकेति व्यपदिश्यते इति चेत् । अत एवं संज्ञाद्वयाङ्किता एका जातिरित्युक्तम् । जातिभेदोऽत्र निषिध्यते, न संज्ञाभेदः । एवं कथाविशेषः आख्यायिका स्यात्, न जातिभेदः । यथा कथाविशेषाणां संज्ञाभेदा यथेष्टम् । न च भाषाभेद—मात्राद्विजातीयत्वम् । कथानामपि परस्परविजातीयत्वप्रसङ्गात् एतावन्तः स्यात् । काचित् कथा संस्कृतमयी । काचित् प्राकृतमयी । काचित् अपभ्रंशस्वभावा । काचित् भूतभाषामयी । काचित् मिश्रेति । यथा वाचां भाषाभेदेऽपि न कथात्वं हीयते गद्यमयत्वात्, प्रसङ्गे तु पद्यप्रवेशः, तथा संस्कृतमय्या आख्यायिकायाः कथात्वं न विरुद्धयते । अत एवोक्तम् । एका जातिः कथाजातिरेव यथेष्टं संज्ञा अनुभवति, यथा मनुष्यजातिरेका क्षत्रिय जातिसंज्ञाम् । भाषान्तरमयीनामपि कथानां गद्येनार्थोपक्षेपः लम्भादिपरिच्छेदादौ न दूष्यते निषेधाभावात् । भामहेन निषिद्धमिति चेत् । दण्डिना विहितमिति किं न प्रत्येषि । तस्मात् काचित् कथा [आश्वासादौ] गद्याक्षिप्तार्था, काचिन्न । [न]ह्येतावता आख्यायिका कथात्वं नानुभवति । कथा वाऽऽख्यायिका14a संज्ञामित्येकैव जातिः संज्ञाद्वयाङ्कितेति सूक्तमेव ॥

  1. काव्यालङ्कारे १. २७
  2. १.२८