तदेवं शरीरभेदकृतं त्रैविध्यं काव्यानां परिसमाप्य भाषाभेदकृतं चातुर्विध्यं दर्शयन्नाह—

तदिदं वाङ्मयं भूयः संस्कृतं प्राकृतं तथा ।
अपभ्रंशश्च मिश्रं चेत्याहुराप्ताश्चतुर्विधम् ॥ ३२ ॥

यत् काव्यशरीरं त्रिविधमुक्तं तदिदं वाङ्मयं काव्यशरीरं भूयः पुनश्चत्वारो विधाः प्रकारा भाषामया यस्य 14b तत् प्रत्येकं चतुर्विधमाहुरामनन्ति । आप्ता आचार्याः । कथं—पद्यं काव्यशरीरं संस्कृतं शुद्धम्, प्राकृतं शुद्धम्, अपभ्रंशः शुद्धः, मिश्रं च तैः पैशाचिकेन चाशुद्ध्यधिका तु पृथगुक्ता । [यथा] पश्चाद्वक्ष्यति, भूतभाषामयीमित्यादिना । एवं गद्यं मिश्रं च काव्यशरीरं योज्यम् । पूर्वं गद्यपद्याभ्यां मिश्रमुक्तमिदानीं संस्कृतप्राकृतापभ्रंशैः प्रत्येकं त्रिविधं शरीरं मिश्रमुक्तामिति मिश्रयोर्भेद इति ॥