किमत्रोत्कृष्टं प्राकृतमित्याह—

24
महाराष्ट्रायां भाषां प्रकृष्टं प्राकृतं विदुः ।
सागरः सूक्तरत्नानां सेतुबन्धादि यन्मयम् ॥ ३४ ॥

महाराष्ट्राः कुन्तलामुरलासकविदर्भमहिवाचरत्रवैश्यादिप्रभेदाः (?) आश्रयः अधिष्ठानं यस्याम्तां महा15a राष्ट्राश्रयां भाषां वाचं प्रकृष्टं प्राकृतेषु शोभनतमं प्राकृतं विदुः उपदिशन्ति बहुज्ञाः । तदुक्तम्—

ऊहइ अ विविह भासा परिरि (?) हिअअं य मोत्तूणं ।
मरहअठिअया अ अत्थि गहिअं कइल्लेहि ॥ [?]
इति । कुत्रैतद् दृश्यते इति चेदाह-सागर इत्यादि । सेतुबन्धः प्रवरसेनरचितः । स्कन्धकमर्यः आदिर्यस्य मथनादेस्तत्सेतुबन्धादि काव्यम् यन्मयं यस्य प्राकृतस्य विकारः, तत्प्राकृतं प्रकृष्टमिति प्रकृतम् । तत्काव्यं सदिति प्रशंसयन्नाह—सागरः सूक्तरत्नानामिति । सूक्तानि शब्दार्थोत्कर्षयोगात् । तान्येव प्रीतिकरत्वादिसाधर्म्येण रत्नानि, तेषां सागर आस्पदम् । रत्नानां हि सागर आश्रयः, सूक्तानां च रत्नकल्पानां तत्काव्यमाश्रय इति सागर उक्त इति । ननु प्राकृतान्तरमयमपि सेतुबन्धादि, तत् किमुच्यते महाराष्ट्रप्राकृतमयमिति । न चात्र पठ्यते महाराष्ट्रप्राकृतमयमेवेति । प्राधान्यात्तत् तन्मयमुक्तम् । यथा हयमयमनीकमिति ततेन्नश्यत(?) इत्येवंपरमेतत् ॥