यदेतत्त्रिविधं काव्यशरीरं भाषाभेदाच्चतुर्विधमुक्तम्, तदेव द्विधाविनियोगभेदाद् दर्शयन्नाह—

लास्यच्छलिनशम्यादि प्रेक्षार्थमितरत्पुनः ।
श्रव्यमेवेति सैषापि द्वयी गतिरुदाहृता ॥ ३९ ॥

लास्यं श्रृङ्गारप्रधानं नृत्तम् । तदुक्तम्—

ताण्डवमशक्नुवत्या नर्त्तितमाविद्धकरणसंकीर्णम् ।
प्रियकारिणा प्रियाया हरेण लास्यं पुरा सृष्टम् ॥ इति ।

छलिनं [छद्म]प्रधानं नृत्तम् । लस्या तालविशेषप्राधान्यम् । सा च दक्षिणपाणिपातलक्षणा । यथोक्तम्—

सव्यहस्तनिपातश्च [ल]स्या तालस्तु वामकः ।
करयोरुभयोः पातः सन्निपात इति स्मृतः ॥

तत्प्रतिपादकं काव्यं लास्याद्यक्तं तादर्थ्यात् । आदिशब्देन च स्कन्धकादि-27 परिग्रहः । तदेतत् प्रेक्षार्थम् । प्रेक्षा प्रेक्षणं चक्षुषा ग्रहणम् । तस्यै इदं प्रेक्षैवार्थः प्रयोजनं तदालम्ब्य प्रवृत्तिर्यस्य तत् प्रेक्षार्थम् । प्रेक्षा तदर्थस्याभिनयप्रधानत्वात् प्रेक्षणे विनियुज्यते, तत्श्रव16b णं तु सदपि न विवक्षितम् । तस्माल्लास्यादेरितरत् अन्यत् सर्गबन्धादि श्रव्यमेव श्रवण एव विनियुज्यते, अनभिनेयार्थत्वात्, न प्रेक्षणे इति । सैषा एवं रूपा द्वयी द्विविधा गतिर्व्यवस्था विनियोगकृता उदाहृता कथिता । तस्य त्रिविधस्य काव्यस्य न केवलं चतुर्विधेत्यपि शब्दः । यदुक्तम्—तैः शरीरं च काव्यानामलङ्कारश्च दर्शितः39 इति । तत्रेयता शरीरमलङ्काराधिष्ठानं निर्दिष्टम् ॥

  1. १.१०