किं लक्षणौ तौ को वाऽनयोः 43प्रतिविशिष्ट इति तच्च मार्गद्वयमिदानीं विभज्यते । प्रतिविशेषे तु सन्तः प्रमाणमिति विभजन्नाह—

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ ४१ ॥

29 श्लिष्टिः श्लेषो वार्थगौरवम् । प्रसत्तिः प्रसादः प्रकाशार्थता । समता पद्यापेक्षया [बन्धतुल्यतो]पादानम् । माधुर्यं शब्दे अर्थे च रसवत्ता । सुकुमारता अपरुषाक्षरबाहुल्यम् । अर्थस्याभिधेयस्य व्यक्तिः शब्देन न्यायेन वा ग्रहणम् । अन्यथा दुष्प्रापत्वाद् वक्ष्यति—नहि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी । इति ।44 उदारत्वं प्रकृष्टता केनचिदर्थेन सनाथत्वम् । ओजः समासवृत्तिबाहुल्यम् । कान्तिः सर्वलोकमनोहरत्वम् । समाधिर्भगवत्प्रतीत्यनुसारिणी गौणार्थता ।

  1. प्रतिविशिष्टो भेदकधर्म इत्यर्थः ।

  2. १.७५