अत्र प्रियतमेनेति । ताम्बूलादिहेतुकोऽन्य एवाधररागोऽन्यश्च मत्सरहेतुकः कषायतालक्षणो नयनगामीति तयोरभेदाध्यवसायो यत्तत्पदाभ्यां प्रतीत इति गौणी वृत्तिः । प्रकाशते च शब्दवृत्त्याधरस्थानस्थितस्य नयनस्थानप्राप्तिरिति तावतैवालंकारनिर्वाहः ॥
विनिमयवती मुख्या यथा—
अत्र करिकपोलमदामोदस्याम्भोजरजः परिमलस्य च सरित्सलिलद्विपकपोलपाल्योर्मुख्यत्वेनैव परस्परोपकरणादियं विनिमयवती मुख्या नाम परिवृत्तिः ॥
अत्र करिकपोलेति । गजेन्द्राणां मदयासमचन्द्रकयोः(?) स्वाश्रितयोर्नदीषु संक्रामणं नदीस्थितयोश्च किञ्जल्काम्भोजपरिमलयोर्ग्रहणं तेन दानप्रतिदानवत्तया विनिमयो भवति ॥
विनिमयवत्यमुख्या यथा—
अत्र जर्जरकलेवरं दत्वा शशिकिरणशुभ्रं यशः क्रीतमित्यमुख्ययैव वृत्त्या विनिमयोक्तेरमुख्येयं विनिमयवती परिवृत्तिः ॥
अत्र जर्जरेति । मूल्यार्पणक्रयणयोरत्र बाधाव्द्यक्त एवोपचारः, शब्दवृत्तिस्तु पूर्ववदेव कुण्ठैवेति भवति विनिमयः ॥
उभयवती मुख्या यथा—