अत्र न केवलं कोदण्डदण्डके मानुषेऽप्येवमेवेतीतरेतरयोगवद्वक्रतया युगपदभिधानं गुणवर्जितवंशोत्पन्नेऽपि टङ्कारो न जायत इति 355 श्लिष्टपदत्वेऽपि व्यतिरेकमुखेन गुणवृत्त्या चाभिधानाद्धनुषीव मानुषेऽपि गुणवत्येव महाञ्शब्दो भवतीति वक्रोक्त्या साधर्म्यावगतिः । तदिदमशब्दत्वादिभिः पूर्वाद्भिद्यमानं समं वक्रं च निदर्शनम् ।