359

शशाम वृष्टिरिति । भूभृतो राज्ञश्च ॥

स एव प्रतीयमानसादृश्ययोर्यथा—

‘अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम् ।
इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम् ॥ ९९ ॥’

अत्र कान्तामृगेक्षणयोः प्रतीयमानसादृश्ययोर्भ्रूविलासमदरागौ तदभावौ च विसदृशौ भेदकाविति सोऽयं प्रतीयमानसादृश्ययोरसदृशव्यतिरेकः ॥

सदृशासदृशव्यतिरेकाभ्यामेव तदुभयव्यतिरेकोऽपि व्याख्यातः । यथा—

‘निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः ।
परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥ १०० ॥’

अत्र नभःसरसोः प्रतीयमानसादृश्ययोर्निर्मलेन्दुत्वं विकचाब्जत्वं च प्राग्वदेव सदृशे भेदके; ताभ्यां च मुखचन्द्रमुखकमलाभ्यां मनोहराह्लादकत्वाभ्यां च प्रतीयमानसादृश्ययोरेव रामलक्ष्मणयोर्येयं मुखपर्यश्रुता, तनौ च म्लानिर्निर्मलेन्दुताविराजमानयोर्विकचाब्जत्वशोभमानत्वयोश्च सा विसदृशीति सोऽयं सदृशासदृशभेदकत्वकृतभेद एव तदुभय- व्यतिरेकः ॥

ताभ्यां च मुखचन्द्रेति । मुखस्य चन्द्रकमलभावोऽनादिकविकल्पनासिद्ध इति तेनापि रूपेण प्रतीयमानसादृश्यत्वमुक्तम् ॥

ननु मिथो व्यतिरेकभेदगणनमनुपपत्रं सदृशासदृशव्यतिरेकस्यापि संभवा- दित्यत आह—

एतेनैकव्यतिरेकादिसंभेदोऽपि व्याख्यातः । यथा—

‘मिथ्या देव भुजेन तेऽल्पविभवः कल्पद्रुमः स्पर्धते नह्येनं भुवनत्रयाभयमहासत्री कृपाणोऽञ्चति ।