370

तेषु निर्णयान्तस्तत्त्वानुपाती यथा—

‘मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ १२० ॥’

अत्र निरूपितलक्षणे वितर्के जटायुरेष इति तत्त्वानुपाती निर्णयान्तो वितर्कः ॥

मैनाकः किमयमिति । किमयमिति काक्वा पूर्वं दोलायमानचित्तस्य नियतकोटिस्पर्शी ज्ञानविशेष उपनीयते स एव तर्कः । एवमन्यत्रापि ॥

स एवातत्त्वानुपाती यथा—

‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १२१ ॥’

अत्र किमिदं रूपं निर्मातुं यथोक्तः पुराणो मुनिः प्रभवेत्, अतश्चन्द्रादिष्वन्यतमेन प्रजापतिना भवितव्यमित्यतत्त्वानुपातित्वादतत्त्वानुपात्ययं निर्णयान्तो वितर्कः ॥

स एवोभयात्मको यथा—

‘चित्ते निवेश्य परिकल्पितसत्त्वयोगा- न्रूपोच्चयेन रचिता मनसा कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ १२२ ॥’

सोऽयं तत्त्वानुपातित्वादतत्त्वानुपातित्वाच्चोभयात्मा निर्णयान्तो वितर्कः ॥