374

अत्र दृष्टया यन्न दृष्टः संभाषितया यन्न संभाषितो न चाभ्यागतोपचारो बिहितस्तेन तदनुरागः परं न पिहितः प्रत्युत छादनेन छेकानां प्रकटित इत्यपिहिताख्योऽयं मीलितभेदः ॥

ननु दृष्टयापि न दृष्ट इत्यपि कथमलंकारः । न ह्यत्र शक्तिरस्तीत्यत आह— प्रत्युतेति । छेका विदग्धास्तैरास्वाद्यमानत्वादावर्जकत्वं काव्यस्येत्यर्थः ॥

तद्गुणो यथा—

‘गोरङ्गउ तरुणिअणो जोह्णाइं अहिसरइ सिअणेवच्छपडिच्छेओ वल्लहवद्धरइ ।
तच्छाआहिं पुण चलिअउ सामल- गत्तो तह मअणु मन्ति अहिम् ॥ १३० ॥’
[गौराङ्गस्तरुणीजनो ज्योस्नायामभिसरति सितनेपथ्यपरिच्छन्नो वल्लभबद्धरतिः ।
तच्छायासु पुनश्चलितः श्यामलाङ्गस्तत्र मदनो मन्त्र्यभूत् ॥]

अत्र गौराङ्गस्तरुणीजनः सितनेपथ्यो ज्योत्स्नायां श्यामस्तु नीलनेपथ्यस्तस्याश्छायासु गच्छतीति तद्गुणाश्रयमीलनात्तद्गुणाख्यं मीलितमिदम् ।

गोरङ्गउ इति । गौराङ्गः । जोह्णाइं ज्योत्स्नायाम् । णेवच्छं नेपथ्यं वस्त्राङ्गरागादिपरिग्रहः । पडिच्छेओ प्रतीक्ष्य गृहीत्वा । वल्लहवद्धरइ वल्लभबद्धरतिः । तच्छाआहिं तासां गौराङ्गीणां छायायाम् । चलिअउ चलितम् ॥

अतद्गुणो यथा—

‘कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षिणी क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ।
कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुरः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति १३१ ॥’

अत्र कर्कन्धूफलानामपगतनिजगुणत्वादतद्गुणत्वादतद्गुणाख्यं मीलितमिदम् ॥

अत्र कर्कन्धूफलानामिति । विरुपगुणानामित्यर्थः ॥