यदा पुनः करणसाधनोऽनुमानशब्दस्तदानुमीयतेऽनेनेत्यनुमानशब्देन यथोक्तं लिङ्गमुच्यते । यदाह—
अनुमेयेनेति । अनुमेयेन पक्षेण तस्यैव साध्यवत्तयानुमेयत्वात् । यदाह—‘स एव चोभयात्मायं गम्यो गमक इष्यते । प्रसिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥’ इति । तदन्विते साध्यान्विते । प्रसिद्धं प्रकर्षेण सिद्धम् । व्याप्यतयाधिगतम् । तदभावे साध्याभावे । यतोऽनुमापकं ततो लिङ्गम् ॥
तत्पूर्ववति यथा—
अत्रैवंप्रकारया वक्रोक्त्या एवंविधेन हसितेनोपलक्षितत्वमग्रतो गोत्रं दूषयसीति कारणतो यत्र कार्यानुमानं तदिदं सामग्रीपक्षे पूर्ववदित्युच्यते ॥
पूर्ववतीति । पूर्वं कारणमनुमापकं यस्यास्ति तत्पूर्ववल्लिङ्गं तस्मिन् । ननु मापयितव्ये लिङ्गज्ञानविषयतया पूर्वं कारणमाश्रयतीति पूर्ववत् । सोऽयमर्थः सप्तम्या द्योतितः । कारणत इति । यथाहि वक्र आलापो मुग्धाङ्गनाप्रकृत्यौचित्यागतं हसितं ध्वननशक्त्या विषयतया कान्तिमर्पयति न तथा शब्दाभिलपितं चारित्र्यखण्डनमिति साहित्यमुद्राविदामतिप्रकाशमेव ॥
शेषवति यथा—