प्रसिद्धेति । प्रसिद्धस्पर्शहेतोर्विभाव्यतया प्रसिद्धग्रहणं नियमेन तद्भावापत्तिमूलत्वं चास्यास्तेन विरोधः । तथा हि ‘णमह अवट्ठिअतुङ्ग—’ इत्यादौ वर्धनजन्यमन्यदेव तुङ्गत्वमन्यच्च पारमेश्वरमाजानिकमिति तयोरभेदाध्यवसायः । एत- देवाभिसंधाय काश्मीरकैरतिशयोक्तिरस्या मूलमुक्ता । यदिति निपातो यत्रार्थे । यद्यपि कारणाभावेऽपि कार्योत्पत्तिरित्येव लक्षणं तथापि महासंज्ञाकरणप्रयोजनं किमित्याशङ्कायां द्वयं विभाव्यमाह । तदयमत्र संक्षेपः—यथोक्ता तावद्विभावना । सा द्वयी । कारणान्तरपर्यवसिता, स्वभावपर्यवसिता चेति ॥
प्रत्येकं च शुद्धादिभेदात्षोढा संपद्यत इत्येतावतैव विभावना शरीरनिष्पत्तेः । यथा वर्णो वर्णेन करम्बितं चित्रं तथा विभावनापि विभावनया तादृशी चित्रेत्याह—
अनेक इति । यथा च स्वरूपसंपादकातिरिक्तविशेषप्रवेशाद्विचित्राः स्रग्दामादयस्तथेयमपीति दर्शयति—विचित्रा यत्रेति । तां विभावनाम् । तया विभावनया । अन्ययेति अलंकारान्तररूपया ॥
तत्र कारणान्तरविभावनायां शुद्धा यथा—
अत्रैकैकं कादम्बादिकमुद्दिश्य क्षीबतादेः पीतत्वादिरेकैकः प्रसिद्धहेतुर्व्यावर्तते । हेत्वन्तरं च शरत्प्रभावो विभाव्यते । सेयं शुद्धा नाम कारणविभावनायां बिभावना ॥
पीतं पानम् । सूक्ष्मं निर्मलम् । शरत्प्रभाव इति । प्रस्तावौचितीभ्यामभिव्यक्तः ॥