389 कटमिति येयं संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदिदमननुभूतविषयमुपमानं नैयायिकाः समुन्नयन्ति ॥
तेष्वभिनयो यथा—
अत्र पयोधरातिपरिणाहसूचकोत्तानप्रसारिताङ्गुलिहस्ताभिनयसंनिभैरण्डदलसंनिवेशनात्खयमुद्दिष्टेऽपि हालिकवधूस्तनपरिणाहे पूर्वानुभूतैवंविधस्तनपरिणाहसंबन्धप्रतिपत्तिस्तदिदमनुभूतार्थविषयमुपमानमेवाभिनय इत्युत्प्रेक्ष्यते ॥
वइविवरेति । ग्रामतरुणैरनन्यबद्धान्तःकरणैर्हालिकवधूस्तनाभोगो मुसलोल्लासनादौ वारंवारमनुभूतः स तुल्याकारधृतविवरप्रसूनैरण्डदलदर्शनादेव बुद्धिमारोहतीति सा बुद्धिर्मीमांसकोपमितिमध्यमध्यास्ते । कथमेरण्डदलसंनिवेशस्याभिनेयता । अनुकारो ह्यभिनयः । न चासौ तत्र संभवति । अत आह—हस्ताभिनयसंनिभेति । उत्तानप्रसारिताङ्गुलिहस्तसंनिवेशेन वस्त्वन्तरपरिणाहप्रतिबिम्बनं लोकप्रसिद्धं तदिहाप्येरण्डदलविस्तारदर्शनात्तदन्तरितमेव जायत इत्यर्थः ॥
आलेख्यं यथा—