अत्र विभ्रमिणीमिति प्रशंसायां मत्वर्थीयस्तेन विभ्रमाणामुत्कर्षो 395 लक्ष्यते । ते चान्योपदेशादसंभवन्तो मन्मथमुपाध्यायं बोधयन्ति । तस्याग्रतः पार्श्वतो वानुपलभ्यमानस्य तन्मनस्यवस्थानं लक्ष्यते । सेयमाद्या प्रत्यक्षपूर्विका द्वितीया चार्थापत्तिपूर्विकार्थापत्तिर्भवति । इयमेव च मनोभूर्मनसि कामिनीनां संभवतीत्याप्तोपदेशादागमपूर्विकापि भवति ॥