312

नास्त्येवासवर्थालंकारो यः स्वरूपं नाश्रयत इति प्राथम्यं जातेरेवेत्याह—

तेषु—

नानावस्थासु जायन्ते यानि रूपाणि वस्तुनः ।
स्वेभ्यः स्वेभ्यो निसर्गेभ्यस्तानि जातिं प्रचक्षते ॥ ४ ॥

तेष्विति । कालकृतो विशेषोऽवस्था । तामधिकृत्य जायन्ते वस्तुस्वरूपव्यभिचारिण्युत्पद्यन्ते । नन्वेवं ‘य एते यज्ज्वानः प्रथितमहसो येऽप्यवनिपा मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया । अहो ये चाप्यन्ये फलकुसुमनम्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भगवती ॥’ इत्यादावपि जातित्वं स्यादित्यत आह—स्वेभ्यः स्वेभ्य इति । स्वभावभूतानीत्यर्थः । कविप्रतिभामात्रप्रकाशनीयरूपोट्टङ्कनं जातिरिति लक्षणम् । लौकिकविकल्पविषयोऽपि प्रतिभया भासत एव । यदाह— ‘रसानुगुणशब्दार्थचिन्तास्तिमिचचेतसः । क्षणं विशेषस्पर्शोत्था प्रज्ञैव प्रतिभा कवेः । स हि चक्षुर्भगवतस्तृतीयमिति गीयते । येन साक्षात्करोत्येष भावांस्त्रैलोक्यवर्तिनः ॥’ इति ॥

उक्तमेव विशेषमभिसंधायाह—

अर्थव्यक्तेरियं भेदमियता प्रतिपद्यते ।
जायमानप्रियं वक्ति रूपं सा सार्वकालिकम् ॥ ५ ॥

अर्थव्यक्तेरिति । वस्तुस्वरूपोल्लेखनरूपार्थव्यक्तिरर्थगुणेषूक्ता । तत्र सार्वकालिकं रूपमुपजनापायान्तरालव्यापकमित्यर्थः । अत्र तु जायमानमागन्तुनिमित्तं समवधानप्रभवं व्यभिचरितमित्यर्थः । विच्छित्तिप्रकारयोरसंकरात्पृथक्शोभार्पणाच्च युक्तो व्यतिरेकस्तेन स्वभावोक्तिरेवार्थव्यक्तिरिति यत्केनचिदुक्तं तदपास्तम् । अत एव जात्यन्तरप्रकाराणामपि पृथगलंकारता स्यादिति न युक्तमवान्तरवचसैव व्याघातात् । न हि सामान्यविशेषयोर्विभागो भवति ॥

स्वरूपमाश्रयो हेतुरिति तद्भेदहेतवः ।
ते संस्थानादयस्तेषु सा विशेषेण शोभते ॥ ६ ॥

स्वरूपमिति । आश्रयविशेषहेतुविशेषव्यतिरिक्तोऽवच्छेदकप्रकारः स्वरूपम् । एतदेव विभजते—ते संस्थानादय इति । ननु किमनेन प्रपञ्चेन पूर्वाभिहि-