पीनश्रोणीति । निभृतं दुर्लक्ष्यम् । अब्धिदुहितापि सर्वाङ्गीणमाश्लेषमभिलषति भगवानपीति कान्तेन कान्तमित्येताभ्यामभिव्यज्यते । उपलक्षणं चेदम् । तादात्म्यात्यन्ताभावाभावावप्युदाहरणीयौ । यथा—‘अवनिरुदकं तेजो वायुर्नभः शशिभास्करौ पुरुष इति यत्केचिद्भिन्ना वदन्ति तनूस्तव । तदनघ वचोवैचित्रीभिर्निरावरणस्य ते विदधति पयःपूरोन्मीलन्मृषा मिहिरोपमाम् ॥’ अत्र भिन्न इत्यन्योन्याभावमुपन्यस्य निरावरणस्य मृषेत्येताभ्यां निषेधः । यथा च—‘न विद्यते यद्यपि सर्ववासनागुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागु-329 पासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥' अत्र न विद्यत इत्यत्यन्ताभावमुपन्यस्य कमपीति प्रतिभासत्ताभिधानेन प्रतिषेधः ॥