विदूरकार्य इति । कालान्तरभाव्यवस्थासंपाद्यं प्रागवस्थावत एव कार्यमुपजायमानं यत्रोच्यते स विदूरकार्यस्तच्च कार्यं शक्तिविशेषाधीनमिति बाल्येऽपि प्रभावातिशयदर्शनाद्भुजेनैव रक्षा कृतेति गौणवृत्तिव्यपाश्रयता ॥