335 प्रमेयज्ञानमुत्पद्यते । तथाह्यन्योन्यसंवलितेत्यादौ दम्पत्योर्मिथोऽनुस्मृतिलक्षणस्य प्रेम्णः कतिपयसंवेद्यस्यापि शब्दबलात्प्रत्यक्षायमाणत्वमनुभवसिद्धमेव । तदेतदाह—सूक्ष्मात्प्रत्यक्षत इति । सूक्ष्मालंकारे तु कविप्रतिभाया लिङ्गविषयत्वाच्छब्दोऽपि तद्विषय एव । लिङ्गाच्च प्रतीतिरुत्पद्यमाना सामान्यपुरस्कारेण प्रवृत्ता न प्रत्यक्षवत्तद्विशेषोल्लेखक्षमेति सूक्ष्मगुणवैधर्म्यम् । तदिदमुक्तम्—सूक्ष्मोऽप्रत्यक्ष इति । अत्र कैश्चित्प्रतीयमानस्य सूक्ष्मस्य भाव इति संज्ञां विधायालंकारान्तरमुक्तं तदसत्, सूक्ष्मसामान्यलक्षणेन क्रोडीकरणादित्याह—इङ्गिताकारलक्ष्यत्वमिति । एतेन लक्ष्यत्वपुनरुक्त्याशङ्का परिहृता । अत्र स्वयंवरेति । न च शृङ्गारचेष्टाप्रत्यर्पितस्य मनोरथशब्देनाभिधीयमानमर्थं पुनरुक्तमिति वाच्यम् । नहि यथानुरागानुभावेन चित्तवृत्तयः स्फुटा उपस्थाप्यन्ते तथा स्वशब्देनेति विस्तरेण सप्रपञ्चमेव वक्ष्यामः । स्वशब्दस्तु किमर्थमित्यवशिष्यते तत्र ब्रूमः । स्वयंवरसमाजप्रवेशादिना येषां सामान्यत उत्कण्ठा प्रतीतिपथमवतीर्णासीत्तेषामिन्दुमतीसंनिधौ तदनुभावबलेनासंख्यसूक्ष्मविशेषवती सैवाभिव्यक्तेति दृढानुबन्धलक्षणस्य प्रेम्णः प्रकर्षकाष्ठां पुष्णाति । एवमन्यत्रापि ॥

तदेवाकारलक्ष्यं यथा—

‘सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदारालकेश्याः ॥ ४९ ॥

अत्राभिलाषबन्धो रोमाञ्चलक्ष्येण गात्रयष्टिं भित्त्वा निराक्रामदित्यनेनाभिधीयमान आकारलक्ष्यः सूक्ष्मभेदोऽभिहितः ॥

तदेवोभयलक्ष्यं यथा—

‘त्वदर्पितदृशस्तस्या गीतगोष्ठ्यामवर्धत ।
उद्दामरागपिशुना छाया कापि मुखाम्बुजे ॥ ५० ॥’

अत्र त्वदर्पितदृश इति इङ्गितच्छाया कापि मुखाम्बुज इत्याकारस्ताभ्यामुद्दामरागपिशुनेत्यनेनाभिधीयमानस्याननरागस्य सूक्ष्मरूपतया लक्ष्यमाणत्वादयमभिधीयमानोभयलक्ष्यः सूक्ष्मभेदः ॥