पदार्थानां त्विति । सारः सर्वस्वायमानमुत्कर्षशालि वस्तु । पदार्थानामिति निर्धारणे षष्ठी । उत्तरमित्यन्वर्थ नाम । उत्कृष्टत्वमुदोऽर्थस्तत्रैव प्रकर्षस्तरपः । धर्मधर्मिरूपाभ्यामिति । व्यस्तसमस्ताभ्याम् । धर्म उपसर्जनं परप्रवणतया प्रतीयमानं वस्तु । अतथाभूतं तु धर्मिरूपम् । तदयमर्थः—प्रसिद्धवस्तुमध्ये कस्यचिदुत्कर्षवत्तया निर्धारणमुत्तरम् । तन्निधा । धर्मरूपं धर्मिरूपमुभयं च । आद्ययोः प्रत्येकं प्रकारद्वयम् । निर्धार्यमाणस्य शुद्धस्योपादानं, निर्धार्यानुत्तरव्यतिरेकिधर्मवत्तया वा । तदिदमाह—व्यतिरेकाच्चेति । अन्त्यस्यापि सामान्यविशेषरूपतया रूपत्वमिति षट्प्रकारमुत्तरमिति ॥