338

धर्मिरूपो यथा—

‘मधुविकचसितोत्पलावतंसं शशिकरपल्लवितं च हर्म्यपृष्ठम् ।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः ॥ ५५ ॥’

अत्र मधुप्रभृतीनां विभूतिभ्यः सारभूतानामुद्धरणादयं धर्मिरूपः सारः ॥

विभूतिभ्य इति । विभूतयः प्रथमानिर्दिष्टास्तेन पूर्ववन्नामूषां धर्मिभावेन प्रतीतिभासोऽस्तीति विशिष्टमध्वादिरूपं वस्तुनाङ्गभावेन गम्यत इति ॥

अथ व्यतिरेकेण धर्मरूपो यथा—

‘पोढमहिलाणं जज्जं सुसिक्खिअं तं रए सुहावेइ ।
जज्जं असिक्खिअं णववहूणं तंतं रइं देइ ॥ ५६ ॥’
[प्रौढमहिलानां यद्यत्सुशिक्षितं तद्रतौ सुखयति ।
यद्यदशिक्षितं नववधूनां तत्तद्रतिं ददाति ॥]

अत्र प्रौढानां सुशिक्षितं सुरतकर्म, अप्रौढस्त्रीणां पुनरशिक्षितं सुखयतीति कर्मान्तरलक्षणेभ्यो धर्मेभ्यः सुशिक्षिताशिक्षितरतकर्मलक्षणा धर्माः स्त्रीधर्माव्यतिरेकेण प्रतिपाद्यन्त इति धर्मव्यतिरेकरूपोऽयं सारः ॥

अप्रौढस्त्रीणामिति । षष्ठ्या धर्मधर्मिभावोऽभिहितः । तर्हि निर्धारणं कस्मादित्यत आह—कर्मान्तरेति । रत इत्यनेन सामान्यत उपादानात् प्रौढस्त्रीसंबन्धिनो ललितस्य सुशिक्षितत्वं विशेषमुपादाय मुग्धस्त्रीसंबन्धिनोऽशिक्षितत्त्वं व्यतिरेकी विशेष उपात्तः ॥

व्यतिरेकेण धर्मिरूपो यथा—

‘राज्ये सारं वसुधा वसुधायां पत्तनं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ५७ ॥’

अत्र वसुधादयो धर्मिण उत्तरोत्तरक्रमेण पूर्वतः पूर्वतो व्यतिरिच्यन्त इत्ययं धर्मव्यतिरेकः सारः ॥