341
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो भृङ्गीसान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥ ६१ ॥’

अत्र दिग्वासस्त्वादीनामुत्तरोत्तरग्रथनादन्योन्यासंगतादयं ग्रथितनामा विरोधभेदः ॥

उत्तरोत्तरग्रथनादिति । यद्यप्येकेन विरोधिना सहोक्तौ विरोध्यन्तरेणापि तथा भावमासादयन्नेव ग्रथितस्तथाप्युत्तरग्रथनया शोभाविशेषार्पको भवतीत्यभिप्रायः ॥

असङ्गतिर्यथा—

‘सा उप्पडी गोठ्ठउहि णोक्खी कावि विसगण्ठि ।
भिडिय पचेल्लिउ सो मरइ ज्जस्स ण लग्गइ कण्ठि ॥ ६२ ॥’
[सा उत्पन्ना गोष्ठभुवि नवीनैव कापि विषग्रन्थिः ।
भिद्यते प्रत्युत स म्रियते यस्य न लगति कण्ठे ॥]

अत्रायं विषग्रन्थिर्यस्य कण्ठे न लगति स म्रियत इत्येतयोः परस्परमसङ्गतेरयमसङ्गतिर्नाम विरोधः ॥

गोठ्ठउहीति । गोष्ठे । णोक्खी अपूर्वा । कावि विसगण्ठि कापि विषग्रन्थिः । ‘रोमाञ्चादयस्त्रियाम्’ इति स्त्रीलिङ्गता । पचेल्लिंउ प्रत्युत । विषग्रन्थेः कण्ठसंबन्धेन मारकत्वं प्रतीतम् । वर्ण्यमानाया रूपस्य तथाभूतस्यैवेति व्यक्तो विरोधः ॥

प्रत्यनीकं यथा—

‘उत्कण्ठा संतापो रणरणको जागरस्तनोस्तनुता ।
फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥ ६३ ॥

अत्र मृगलोचनादर्शनस्यैव किल निर्वृतिः फलम् । मया तु तां दृष्ट्वान्तस्तापादिकं मयाप्तमिति प्रत्यनीकफलत्वादयं प्रत्यनीकाख्यो विरोधः ॥

अत्र मृगलोचनादर्शनस्यैवेति । यद्यप्येकस्य विरुद्धं कार्यकारित्वं न विरुद्धं, तथापि ययैव प्रवृत्त्या किंचित्कार्यं कर्तुमुद्यतो न तयैव तद्विरुद्धं करोति तदेतत्सुखायेति चतुर्थ्या द्योत्यते ॥