314

अत्र स्त्रियाः शूलप्रोल्लासनादौ व्यापारे बुद्धिकारितमपि शरीरावस्थानमीदृशं जायत इतीदमवस्थानं नाम जातिभेदः ॥

पादावष्टम्भेति । उल्लसद्बाहुमूलमिति प्रोल्लसनक्रियाविशेषणम् । सरलितवपुष इति मध्यभागविशेषणम् । अत एव वलीनां विश्लेषो मिथो विभागः उपरिशरीराकर्षणात्कञ्चुकप्रान्तापसरणम् । मुसलोल्लासनादौ दृष्टमिदमबुद्धिजमेव नारीणां रूपमिति भगवतीविषये प्रतिबिम्बनमतिस्फुटमेव । तदाह—आदाविति ॥

वेषो यथा—

‘छणपिट्ठधूसरत्थणि महुमअअम्बच्छि कुवलआहरणे ।
‘कस्स कअ चूअमञ्जरि पुत्ति तुए मण्डिओ गामो ॥ ३ ॥
[क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे ।
कस्यकृते चूतमञ्जरि पुत्रि त्वया मण्डितो ग्रामः ॥]

अत्र वसन्तोत्सवे ग्रामतरुणीनामयं वेषो जनमनःप्रमोदाय जायत इति वेषो नामायं जातिभेदः ॥

अत्र वसन्तोत्सव इति । यद्यप्यत्र कालः पात्रं चास्ति तथापि ‘संवाल्लणमउलिझविवरउराहइअम्बिरइअउण तालङ्कम् । सिटिलाअन्तं सवणा अरम्भिसारेह एक्कावि ॥’ इत्यादौ न संकरः कादाचित्कस्त्वसौ गुण एव वेषस्य कथं रञ्जकतेत्यवशिष्यते । तत्राह—जनमनःप्रमोदायेति । रुच्यर्थित्वमुत्पत्तीनां प्रतिपक्षगतानामक्षुण्णत्वादिति भावः ॥

व्यापारो यथा—

‘अग्रे गतेन वसतिं परिगृह्य रम्या- मापात्य सैनिकनिराकरणाकुलेन ।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरा- दुद्बाहुना जुहुविरे मुहुरात्मवर्ग्याः ॥ ४ ॥’

अत्र तादृशि व्यापारे व्यापृतानामीदृशमेव स्वरूपं जायत इति व्यापारनामायं जातिभेदः ॥