447 उल्लसितं स्खलितं नितम्बोपरि निवसनं यस्याः सा । उपरीति योग्यतया वक्तव्यम् । नि द्रया भेम्भली विह्वला ग्रहणं चन्द्रोपरागं श्रुत्वा विनिष्क्रान्ता । अर्थात् गृहात् । रहुरपि तस्या मुखं विलोकते पुनर्विलोकते । गगने भ्रान्तः संशयानः सन् नैव जानाति कान्तामुखचन्द्रयोर्द्वयोर्मध्ये कश्चन्द्र इति । खलु एवार्थे । अत्र संशयशुद्धतान्यामिश्रणेन ॥
अभिधीयमानसादृश्यो मिश्रो यथा—
अत्र द्वयोरभिधीयमानसादृश्ययोः सूर्याचन्द्रमसोः प्राचीप्रतीच्योर्वा तदन्यतममेकमेव वस्तु पर्यायतो विशङ्क्यत इत्यनेकविषयोऽयं मिश्रः संशयः । उपलक्षणं चैतत् । तेन वितर्कोक्त्यादयोऽपि संशयोक्तावेव द्रष्टव्याः ॥
द्वावित्यादि । द्वावप्येतौ रविशशङ्कौ नवीनजपाकुसुमदीप्तीनामाश्रयौ स्तः । उपसंध्यं संध्यासमीपे द्वयमपि रविचन्द्ररूपं वियन्मण्डलस्याकाशमण्डलस्यान्तेऽवसाने तिष्ठति । तदिह कोऽस्तं याति, को वोदयति । कः सूर्यः, कश्चन्द्रः, का प्राची पूर्वा दिक्, का प्रतीची पश्चिमा दिगिति न वयं विद्मः । अत्र रक्तरूपतया गगनान्तगमनेन चाभिधीयमानं सादृश्यम् । अनेकविषयतयैव मिश्रता । तर्हि वितर्कोक्तिः पृथक् कथं नोक्तेत्यत आह—उपलक्षणमिति । संशयोक्तावेवान्तर्भावान्न पृथगुक्ता सेत्यर्थः ॥
तद् यथा—
(युग्मम्)