448

सरोजेत्यादि । निलीनाः संबद्धाः षट्पदा भ्रमरा ययोस्ते पद्मपत्रे नु । इमे विशालदृष्टेर्नायिकाया अमू नेत्रे । स्वित् । वितर्के । शिरोरुहाः केशाः स्वित् । नता पक्ष्मसंततिर्यस्य तत् । निशब्दं शब्दशून्यं निश्चलं स्थिरं च भ्रमरवृन्दं नु ॥ अगूढेत्यादि । एतन्मुखं स्वित् । कीदृशम् । अगूढेन प्रकाशेन हासेन स्फुटो व्यक्तो दन्त एव केसरो यत्र तत् । एतद्विकचं प्रफुल्लं पङ्कजं नु । इत्यनेन प्रकारेण नलिनीवने पद्मिनीमध्ये प्रलीनामवस्थितां सखीं योषितः स्रियो बहुकालेन विदाम्बभूवुर्ज्ञातवत्यः । विदाम्बभूवुरित्यत्र ‘उषविद ३।१।३८’ इति लिट्याम् ॥

यथा च—

‘मुहे मअखलिउल्लावे ण्हाणोल्लए चिउरे वेणीअंसणसारे समोत्तिअहारे उरे ।
कालान्तरे तरलाच्छिहुमअण समुल्लसइ माहउ पुम त्थणगुडरे ण मुणइ कहिं वसइ ॥ ७९ ॥’
[मुखे मदस्खलितोल्लपे स्रानोप्त्लुते चिकुरे वेणीनिवसनसारे समौक्तिकहरे उरसि ।
कालान्तरे तरलाक्ष्णोर्मदनः समुल्लसति माघे पुनः स्तनगृहे न ज्ञायते कुत्र वसति ॥]

कः पुनर्वितर्कसंशययोर्विशेषः । उच्यते । निर्णयासन्नो वितर्कः, वितर्कासन्नश्च संशयः । संशयानो हि वितर्कस्य कोटिमारुह्य ततो विभ्रष्टस्तत्त्वमभिनिविशते । यथा पूर्ववाक्ये विदाम्बभूवुरिति । संशयमेव वा विगाहते यथा—'माहउ पुण त्थणगुडरे ण मुणइ कहिं वसइ ।’ इति । शब्दाश्च किंस्विदादयस्तुल्यरूपा एव संशयविपर्यययोरिति दुरवबोधस्तद्विशेषः । नन्वेवं वितर्कादयोऽप्युभयालंकाराः स्युः । स्त्यम् । किंतूक्तिपक्षे परार्थानुमानवत्, स्वरूपपक्षे स्वार्थानुमानवदिति । अयमेव चोक्तिशब्दस्यार्थः, तेन स्वरूपमात्रोक्तौ संशयवितर्कादयोऽप्यर्थालंकाराः । उक्तिप्राधान्ये तूभयालंकाराः ॥