449

मुहे इत्यादि । ‘मुखे मदस्खलितोल्लपे स्रानार्द्रे चिकुरे वेणीनिवसनसारे समुक्ताहारे उरसि । कालान्तरे तरलाक्ष्णि मदनः समुल्लसति माघे पुनः स्तनगृहे न ज्ञायते कुत्र वसति ॥’ इह कालान्तरे माघातिरिक्तकाले मदस्खलितोल्लापे मुखे स्रानार्द्रे केशे वेणीनिवसनेन कञ्चुकवस्रेण सारे मुक्ताहारसहिते वक्षसि तरलनेत्रे च मदनः कामः समुल्लसति दीप्यते । माघे पुनः स्तन एव गृहं तत्र न ज्ञायते कुत्र वसतीति । उभयत्र विरुद्धकोटिद्वयविषयतयैकामाशङ्क्य पृच्छति—क इति । निर्णयासन्नो निर्णयाव्यवहितपूर्वः, वितर्कानन्तरं निर्णयात् । वितर्कासन्नो वितर्काव्यवहितपूर्वः । संशयानन्तरं वितर्कात् । एतदेवाह—संशयेति । संशयानो वितर्ककोट्यवलम्बी वितर्कानन्तरमुक्तमेव जानाति । अत एव विदाम्बभूवुरिति संशय उक्तः । तथा माहहु इत्यादावपि शब्दकारितोऽनयोर्भेद इत्याह—शब्दाश्चेति । तर्ह्युभयालंकारता वितर्कादीनामित्याशङ्क्य समाधत्ते—उक्तीति । यथा परार्थानुमाने शब्दप्रयोगकारितो विशेषस्तथा शब्दपक्षे स्वरूपमर्थस्तत्पक्षे स्वार्थानुमानवत्प्रवृत्तिः । साम्योक्तादावुक्तिशब्दस्यायमेवार्थो यदुक्तिनिबन्धनं नाम । तथा च स्वरूपमात्रस्योक्तौ निर्वचनेऽर्थालंकारता संशयतर्कादेरुक्तिप्राधान्ये पुनरुभयालंकारतेति ॥ इति संशयोक्त्यलंकारनिरूपणम् ॥

अपह्नुत्यलंकारनिरूपणम् ।

अपह्नुतिलक्षणमाह—

अपह्नुतिरपह्नुत्य किंचिदन्यार्थदर्शनम् ।
औपम्यवत्यनौपम्या चेति सा द्विविधोच्यते ॥ ४१ ॥
वाच्ये प्रतीयमाने च सादृश्ये प्रथमा तयोः ।
तथाभूते द्वितीया स्यादपह्नोतव्यवस्तुनि ॥ ४२ ॥
अनौपम्यवती भूयः पूर्वापूर्वा च कथ्यते ।
तासामुदाहृतिष्वेव रूपमाविर्भविष्यति ॥ ४३ ॥

अपह्नुतिरिति । किंचित्प्रसिद्धं धर्मिणं धर्मं वापह्नुत्यापलप्यान्यस्यार्थंस्य प्रसिद्धस्य धर्मादेर्दर्शनं प्रकटनमपह्नुतिः । न चास्या आक्षेपादभेद इति वाच्यम् । तत्र हि प्रतिषेधमात्रमर्थोऽत्र तु प्रतिषेधपूर्वकमन्यार्थकथनमिति भेदः । औपम्यमुपमा तद्वतीति वाच्येऽभिधीयमाने । अपह्नोतव्यवस्तुन्यपह्नुतिविषयपदार्थे ॥