453

समाधिरिति । अन्यधर्मस्यान्यत्र विशेषे य आरोपः स समाधिः । निरुद्भेदोऽव्यक्तः, सोद्भेदः स्फुटः ॥

तयोर्निरुद्भेदो यथा—

‘दूरपडिबद्धराए अवऊहत्तम्मि दिणअरे अवरदिसम् ।
असहन्तिव्व किलिम्मइ पिअअमपच्चक्खदूसणं दिणलच्छी ८६’
[दूरप्रतिबद्धरागेऽवगूहमाने दिनकरेऽपरदिशम् ।
असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः ॥]

अत्र दिनकरदिनलक्ष्मीप्रतीचीनां समारोपितनायकनायिकाप्रतिनायिकाधर्माणां दूरप्रतिबद्धराग इत्यादिभिः श्लिष्टपदैरनुद्भेदः । एवमन्यधर्माध्यारोपादयं निरुद्भेदः समाधिभेदः ॥

दूर इत्यादि । ‘दूरप्रतिबद्धरागेऽवगूहमान एव दिनकरेऽपरदिशम् । असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः ॥’ इहात्यर्थधृतलौहित्येऽत्यर्थंकृतानुरागे च दिनकरे सूर्ये वल्लभे चापरदिशं प्रतीचीमपरनायिकां चावगूहमाने संबध्नात्याश्लिष्यति च सति दिनशोभा वल्लभस्फुटदूषणमसहमानेव क्लाम्यति म्लाना भवति । अत्र च नायकत्वाद्यारोपणं रागादिपदैः श्लिष्टैः क्रियत इति निरुद्भेदता ॥

सोद्धेदो यथा—

‘वल्लहे लहु वोलन्तइ एत्तइ पुणु बहु बलि किज्जमि तामरसिणि तुज्झ रोसहु थिरहु ।
जेण णिरग्गलु जम्पइ किम्पि ण जाव जणु(ण) ताव हिमेण विसित्ति झत्थि(त्ति) पुलुट्ठतणु ॥ ८७ ॥’
[वल्लभे लघु व्यपक्रामत्यागच्छति पुनर्बहु बलिः क्रिये तामरसिनि तव रोषस्य स्थिरस्य ।
येन निरर्गलं जल्पति किमपि न यावज्जनस् तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः ॥]

अत्रापि प्रियतमव्यलीकासहिष्णुः कापि कामिनी हिमानीप्लुष्टां