462 सादृश्ययोर्गर्हावगम्यते; सेयमुभयवती तुल्यातुल्यविशेषणाभिधीयमानप्रतीयमानसादृश्या समासोक्तिः ॥

उपाध्वमित्यादि । हे पान्थाः, तत्सरस्तडागमुपाध्वं सेवध्वम् । कीदृशम् । मार्गस्य तिलकभूतमलंकारीभूतम् । यत्सर आसाद्य गतश्रमभरा यूयं स्वेच्छं विलसथ यथेच्छं क्रीडध्वम् । इतोऽस्मात्क्षाराब्धेर्निवृत्तिरेव कल्याणी कुशलदा न पुनः कथमप्यवतारोऽत्र कुशलदः । अत्रावतरणं न कर्तव्यमिति भावः । क्षाराब्धेः कीदृशात् । जरठेन जीर्णेन कमठेन कच्छपेन क्षुण्णं पयो जलं यस्य तस्मात् । उपाध्वमिति उपपूर्व ‘आस उपवेशने’ लोण्मध्यमपुरुषबहुवचने ‘धि च ८।२।२५’ इति सकारलोपः । ‘कमठकच्छपौ’ इत्यमरः । कल्याणीति गौरादित्वान्ङीष । अत्र पूर्वार्धे सरःसज्जनयोः परोपकारत्वादिगुणैस्तुल्यैरेव सादृश्यमभिहितम् । श्लाघा तु व्यक्तैव । उत्तरार्धे तु क्षाराब्धेस्तादृशस्यानुपकारकतया गर्हा व्यक्तैव ज्ञायते, इहासज्जनगता निन्दापि प्रतीयते; किंतु सा विशेषणद्वारा नेत्यतुल्यविशेषणता ॥

अन्योक्तिर्द्विधा स्वजातौ जात्यन्तरे च । तयोः स्वजातौ यथा—

‘लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥ ९८ ॥’

अत्र हरिशब्देन बलिशब्देन वा कश्चित् समानेतिवृत्तः पुंविशेष एवोच्यते; सेयं स्वजातिविषयान्योक्तिः संक्षेपोक्तिरूपत्वात्समासोक्तिरेव ।

लक्ष्मीत्यादि । स बलिरेव वदान्यः । येन बलिनास्य हरेर्विष्णोः करो हस्तो भिक्षापात्रीकृतो भिक्षापात्रत्वमापादितः । कीदृशः करः । लक्ष्मीस्तनक्रोडकुङ्कुमेनारुणितो लोहितीकृतः । अत्र स्वजातित्वं तुल्यचरितत्वम् । हरिबल्योरपेक्षयान्यत्वमपि ॥ तर्हि समासोक्तिता कथमत आह—संक्षेपेति । संक्षेपेणोपस्थापनादेव समासोक्तित्वमित्यर्थः ॥

जात्यन्तरे यथा—

‘पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे ।
अप्यसंनद्धसौरभ्यं पश्य चुम्बति कुड्मलम् ॥ ९९ ॥’

अत्र भ्रमरशब्देन कश्चित् कामी, फुल्लपङ्कजशब्देन कापि प्रौढा