अत्र कस्याश्चिन्मुखे चन्द्रमसमध्यास्य कश्चिदेवं ब्रूते । सा चेयं पूर्वार्धेऽभिधीयमानतुल्यविशेषणा, पश्चिमार्धे पुनरनाकाशे कोऽयं गलितहरिण इत्यत्र तुल्यविशेषणा समासोक्तिरेवानन्योक्तिः । एकस्यैव चाध्यासादियं शुद्धेत्युच्यते ॥