468 लिपिसाधिका’ इति रत्नकोषः । (‘करिणां बन्धनस्तम्भ आलानम्’ इत्यमरः । ‘शरीरं वर्ष्म विग्रहः’ इति च ।) अत्र पुष्करादेर्लेखन्यादित्वेनोत्प्रेक्षणं क्रियोत्प्रेक्षा । न चेह द्रव्योत्प्रेक्षैवेति वाच्यम्; लिखनरूपक्रियायामेव सर्वेषां तात्पर्यात् । तस्या एव सर्वैर्निर्वाहात् यत्परः शब्दः स शब्दार्थ इति न्यायात् ॥

उत्प्रेक्षावयवो यश्च या चोत्प्रेक्षोपमा मता ।
मतं चेति न भिद्यन्ते तान्युत्प्रेक्षास्वरूपतः ॥ ५१ ॥

उत्प्रेक्षावयवादीनामुत्प्रेक्षातो न भेद इत्याह—उत्प्रेक्षेति ॥

तत्रोत्प्रेक्षावयवो यथा—

‘अङ्गुलीभिरिव केशसंचयं 165संनिगृह्य तिमिरं मरीचिभिः ।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ १०७ ॥’

अत्राङ्गुलीभिः केशेषु गृहीत्वा प्रियामुखं चुम्ब्यते सा च लोचने निमीलयतीति प्रायोवादः । तत्र मुखचुम्बनादिक्रिया प्रधानमङ्गिभूता प्रतीयते, केशग्रहणाक्षिनिमीलने चाङ्गभूतेऽप्रधाने । तत्राङ्गिभूतायाः क्रियाया उत्प्रेक्षणेनावयवभूता क्रियोत्प्रेक्षिता भवति । यथा हि ‘कुङ्मली कृतसरोजलोचनम्’ इत्यत्र नोत्प्रेक्षापदम्, एवं ‘अङ्गुलीमरीचिभिस्तिमिरकेशसंचयं संनिगृह्य’ इत्यत्रापि तन्न प्राप्नोति; मरीच्यङ्गुलिसंनिगृहीततिमिरकेशसंचयमित्येवं वा वक्तव्यं भवति । तत्र योऽयमवयवक्रियायामप्यन्यपदार्थोक्तद्वितीयावयवक्रियाविलक्षण इव प्रयोगेण पृथक्पदतया वाक्यकल्पः स इवास्यापि व्याख्यानपरत्वेनाप्यनुयोज्यमानः कविभिरुत्प्रेक्षावयव इत्युच्यते । अन्ये पुनर्यत्र प्रधानक्रिया नोत्प्रेक्ष्यते, अवयवक्रिया तूत्प्रेक्ष्यते तमुत्प्रेक्षावयवं वर्णयन्ति ।

अङ्गुलीभिरित्यादि । शशी रजनीमुखं चुम्बतीव । कुङ्यलीकृतानि सरोजान्येव लोचनानि यत्र चुम्बने तद्यथा स्यादेवम् । किं कृत्वा । मरीचिभिरङ्गुलीभिस्तिमिरं केशसंचयं संनिगृह्य गृहीत्वेव । प्रायोवादो भारतादौ दर्शनात् । अत्र द्वितीयेनेवपदेन भिन्नपदतया वाक्यकल्पनमितरपदस्यापि तच्छून्यपदस्यापि तदर्थ-

  1. ‘सन्नियम्य’ इति पाठः