किंशुकेत्यादि । विभावसुरग्निररण्यान्या महारण्यस्य दग्धादग्धं दग्धमदग्धं च भागं पश्यतीव । किं कृत्वा । किंशुकव्यपदेशेन किंशुककुसुमव्याजेन सर्वत्र वृक्षमारुह्य । ‘महारण्यमरण्यानी’ इत्यमरः । ‘चित्रभानुर्विभावसुः’ इति च । अत्र व्याजपदेन किंशुककुसुमाग्न्योः सादृश्यमभिप्रेतमत उपमागर्भोत्प्रेक्षेयम् ॥