471
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः १११’

अत्र यथोक्तैर्हेतुभिः स्वाभिप्रायसाधनेन यदिदमीदृग्विनोदः कुत इति साक्षान्मृगयाभिनन्दनं सेयं वाच्या नामाप्रस्तुतस्तुतिः ‘अहिंसा परमो धर्मः’ इति धर्मं बाधते ॥

भेद इत्यादि । सन्तो मृगयामाखेटकं व्यसनमकर्तव्यं वदन्ति यत्तन्मिथ्या । ईदृग्विनोद उत्साहः कुतः कुत्र । किंतु न कुत्रापि । हि यतो वपुर्लघु भवति निन्दितमिव भवति । कीदृशम् । मेदसो बलस्य छेदेन संचलनेन कृशमुदरं यत्र । मेदसां स्थित्या स्थौल्यं भवति । कृशोदरतयैवोत्साहयोग्यम् । अत एव तुन्दिलेष्वनुत्साहः । सत्त्वानां प्राणिनां भयक्रोधयोर्विकारयोगि चित्तमपि लक्ष्यते । भये चित्तमीदृक्, क्रोधे चेदृगिति । स च धन्विनां धनुर्धराणामुत्कर्षो यदिषवश्चले लक्ष्ये सिघ्यन्ति च भेदका भवन्ति । ‘मेदस्तु वपा वसा’ इत्यमरः । अत्रोक्तहेतुद्वारा निजाभिप्रायस्य सिध्द्या मृगयाभिनन्दनं धर्मबाधनयाभिधीयमानमत इयमप्रस्तुतस्तुतिः ॥ धर्मबाधनामाह—अहिंसेत । मृगया हिंसाजनिका । अतो धर्मबाधात्रेत्यर्थः ॥

धर्मबाधयैव प्रत्येतव्या यथा—

‘कालाक्खरदु स्सिक्खिअ बालअ रे लग्ग मज्झ कण्ठम्मि ।
दोण्ह वि णरअणिवासो समअं जइ होइ ता होउ ॥ ११२ ॥’
[कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे ।
द्वयोरपि नरकनिवासः समकं यदि भवति तद्भवतु ॥]

अत्र कालाक्षरदुः शिक्षिणेत्यनेन लिपिज्ञानादिभिरधीतधर्मशास्त्राभिमतरूपकपोगण्डः कोऽपि कयाप्यविनयवत्या सोपालम्भमेहि रे कण्ठे लगेत्यभियुज्यते । तत्र ते मतमेवं कृते यदि नरकः स्यात्; स यद्यावयोः सहैव, नासौ नरक इति; किं तर्हि स्वर्ग इति । सोऽयं स्वाभिप्रायसाधनान्महासाहसे नियोगस्तस्येह साक्षादस्तुतस्यास्तोतव्यस्य स्तुतिः प्रतीयते । सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा ‘परस्य दारान्मनसापि नेच्छेत्’ इति धर्मं बाधते ॥