474 भवन्ति । यासां त्वं वल्लभो नासि । अत्र धन्या इत्यादिना अनुरागिण्याः साक्षात्स्तुतिरभिहिता तस्या एव कामसिद्धिबाधिका ॥

कामबाधयैव प्रत्येतव्या यथा—

‘सुहउच्छअं जणं दुल्लहं वि दूराहि अम्ह आणन्त ।
उअआरअ जर जीअं वि णेन्त ण कआवराहोसि ॥ ११६ ॥’
[सुखपृच्छकं जनं दुर्लभमपि 169दूरादस्माकमानयन् ।
उपकारक ज्वर जीवमपि 170नयन्न कृतापराधोऽसि ॥]

अत्र पूर्वोक्तास्मदभिप्रायसिध्द्यैवंनाम त्वयास्माकमुपकृतं येन जीवितमपि हरन्नापराध्यसीति ज्वरं प्रति यदतिरक्ततया वाक्यं तेनेहास्तोतव्यस्य ज्वरस्य स्तुतिः प्रतीयते; सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा तस्या एव शरीरबाधया सर्वानपि कामान् बाधते ॥

सुहेत्यादि । "सुखपृच्छकं जनं दुर्लभमपि दूरान्ममानयमान । उपकारक ज्वर जीवमपि गृह्णन्न कृतापराधोऽसि ॥" काचिदत्यनुरागिणी नायकमन्यानुरक्तमपि वार्ताकरणायातं दोषगर्भमाह—सुखेति । हे ज्वर, सुखपृच्छकं तवाङ्गे सुखमधुनेति प्रश्नकारकं जनं दुर्लभमपि मम कृते दूरदेशादानयमान प्रापक, अत एवोपकारक, जीवमपि गृह्णन् त्वं न कृतापराधोऽसि । सुखं सुष्ठु पृच्छति सुखपृच्छकः । ‘क्रियासमभिहारे वुन्’ इति योगविभागाद्वुन् । अत्र सुखपृच्छकेत्यादिना स्वाभिप्रायसिध्द्यानुरक्ताया ज्वरं प्रति वाक्यम् । तेनाप्रस्तुतस्तुतिर्जायते न त्वभिधीयत इति । कामबाधामाह—शरीरेति ॥ इत्यप्रस्तुतप्रशंसालंकारनिरूपणम् ।

तुल्ययोगितालंकारनिरूपणम् ।

तुल्ययोगितालक्षणमाह—

विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित् ।
कीर्तनं स्तुतिनिन्दर्थं सा मता तुल्ययोगिता ॥ ५४ ॥

विवक्षितेति । विवक्षितो वक्तुमिष्टो यो गुणस्तेनोत्कृष्टा अधिका ये तैः सह स्तुत्यर्थं निन्दार्थं वा कस्यचित्सुत्यस्य निन्द्यस्य वा तेन गुणेन तस्य यत्समीकृत्य

  1. ‘दूरान्ममानयमान’ इति व्याख्यादृतः पाठः
  2. ‘गृह्णन्न’ इति पाठः