479 शिक्षिताः । ‘आगोऽपराधो मन्तुश्च’ इत्यमरः । अत्र दोषवदाभासते प्रतिभातीति दोषाभासो न त्वयं परमार्थतो दोषः । चाटुकारिता हि गुणो येन कृतापराधोऽपि मामनुकूलयन्मानभङ्गं करोति । अत एव च तत्रानुरागः । तथा च चपल इत्यादिना सखीजनोद्दिष्टं मानं रागात्कर्तुमशक्ततया बालया चाटुकारिता दोषाभासो गुणः कोऽपि दर्शित इति गुणस्य दोषतात्र । गुणदोषयोर्मिलितयोरेव तत्त्वं लेश इति मतमाह—अन्ये इति । समासोक्तिर्गोपनेन भणनम्, असमासोक्तिः स्फुटभणनम् ॥

तयोः समासोक्त्या यथा—

‘गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते ।
असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ॥ १२५ ॥’

अयमपि प्रकोपभयाल्लेशेनैवोच्यत इति लेशः ॥

गुणानामित्यादि । गुणानां वहनक्षमत्वादीनां दौरात्म्याद्दोषाद्धुर्यो धुरंधरो गौर्वृषो धुरि धुरायां नियुज्यते । गलिः पुनर्गौरसंजातोऽनुत्पन्नः किणो मृतशोणितमांसपिण्डो यत्रेदृशः स्कन्धो सस्य स सुखं यथा स्यादेवं स्वपिति । धुरं वहतीति धुर्यः । ‘धुरो यङ्ढकौ ४।४।७७’ इति यत् । ‘किणः स्यान्मृतशोणिते’ इति रत्नकोषः । 'गलिस्तु वहनाशक्ते’ इत्यपि । अत्र रोषभयादेव समासेन गुणदोषयोरभिधानाल्लेशः ॥

असमासोक्त्या यथआ—

‘सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ १२६ ॥’

अत्रापि प्रकोपभयादि पूर्ववत् । अथैष व्यस्तलक्षणत्वेन कस्मान्न लेश इत्युच्यते । दोषगुणीभावस्याप्रस्तुतस्तुत्या गुणदोषीभावस्य तु व्याजस्तुत्यापहारात् ॥

सन्त इत्यादि । सन्तः सदा दुःखं यथा स्यादेवं जीवन्ति । कीदृशाः । सच्चरितस्य सव्द्यापारस्योदये व्यसनिन आसक्ताः । प्रादुर्भवन्त्याविर्भवन्ति यन्त्रणा अनापत्तयो येषां ते । सर्वत्र कर्ये जनानामपवादे दूषणोक्तौ चकिताः सतर्काः । अत