484 धैर्यादीनां बहूनां वहनक्रियायामेकस्यामेवाविवेकतः कर्मभूतानामावेशेनाविविक्तकर्मक्रियासमावेशा नाम ससादृश्या सहोक्तिः ॥

धीरं वेत्यादि । "धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम् । नदीस्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम् ॥" इह समुद्रं कीदृशम् । धैर्यमिव जलसमूहं वहन्तम्, तिमिनिवहमिव मत्स्यविशेषसमूहमिव सपक्षं पक्षयुक्तम्, स्वपक्षं स्वमित्रं वा पर्वतलोकं मैनाकादिकं वहन्तम्, नदीप्रवाहानिव तरङ्गान् वहन्तम्, रत्नानीव गुरुकगुणशतानि महत्त्वादीनि वहन्तम् ॥ ‘अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः ।’ इति रामायणम् । ‘समूहेऽपि मतो लोकः’ इति रत्नकोषः । गुरुकेति स्वार्थे कन् । अत्र धैर्यजलसमूहादीनां मिथः सादृश्यं व्यक्तमेव प्रतीयमानमिवशब्देन द्योत्यते, साहित्यं च वाक्यार्थतया गम्यत इति सहोक्तिरियं सादृश्यवती ॥

ग्रहणप्रयोजनमाह—

आदिग्रहणाद्गुणसमावेशेऽपि गुणिनः ससादृश्या यथा—

‘सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः ।
पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रमूषणाः ॥ १३४ ॥’

अत्र रात्रयो दीर्घाः पाण्डुराश्चेति दैर्घ्यपाण्डुरत्वगुणयोरविवेकेन रात्रिषु रात्रीणां च तयोः श्वासैरङ्गैश्च सह समावेशो दृश्यते; सेयमविविक्तगुणसमावेशानामेवाद्यप्रयोगेऽपि ससादृश्या सहोक्तिः ।

आदीति ॥ सहेत्यादि । इमा रात्रयः संप्रति विरहावस्थायां मम सह दीर्घाः, ममैवाङ्गैः सह चन्द्रभूषणाश्चन्द्रालंकारास्ता रात्रयः पाण्डुराश्च । चन्द्रभूषणत्वं रात्रीणां पाण्डुरत्वे हेतुः । विरहदशायां खेदान्निः श्वासदीर्घता, अङ्गपाण्डिमा, रात्रिदीर्घता च भवति । अत्र दीर्घत्वपाण्डुत्वगुणयोः समावेशः सादृश्यगर्म एवेति ससादृश्येयं सहोक्तिः ॥ इति सहोक्त्यलंकारनिरूपणम् ॥

समुच्चयालकारनिरूपणम् ।

समुच्चयलक्षणमाह—

द्रव्यक्रियागुणादीनां क्रियाद्रव्यगुणादिषु ।
निवेशनमनेकेषामेकतः स्यात्समुच्चयः ॥ ६० ॥