488 आदरो यत्रेदृशं चाटु कौशलं च । ‘मूलकर्म तु कार्मणम्’ इत्यमरः। अत्र रूपादयो गुणा अन्त्यपदस्थितचकारेण गमनरूपाक्रियायां समुच्चयेन निवेशिता इति समुच्चयः । तदभावे दोषमाह—अगमन्निति । असमुच्चये बहुवचनं द्वन्द्वश्च स्यादित्यर्थः । इदमेव गुणानां कार्मणत्वम् । जात्या समुच्चयेन जातिसमुच्चयोऽपीत्याह—कार्मणत्वमिति ।

उभयपदाश्रय उत्तरपदाश्रितद्योतकत्वेन द्रव्यगुणानां क्रियासमुच्चयो यथा

‘विचिन्त्यमानं मनसापि देहिनामिदं हि लोकेषु चकास्ति दुर्लभम् ।
निशा सचन्द्रा मदिरा च सोत्पला प्रियानुरागोऽभिनवं च यौवनम् ॥’

अत्र निशा मदिरा च द्रव्ये, अनुरागो यौवनं च गुणौ, बहुष्वपि पदेषु द्वन्द्वे सत्यपि उत्तरपदाश्रयनिवेशिना चकारेण चकास्तीत्येकस्यां क्रियायां निवेश्यन्ते; तेन चकासतीति बहुवचनं समासश्च न स्यात् । अयमेव च दुर्लभमित्यपेक्षायां द्रव्यगुणानां गुणसमुच्चयो भवति । तेऽमी त्रयोऽपि शुद्धाः ॥

विचिन्त्येत्यादि । इदं लोकेषु भुवनेषु मध्ये देहिनां प्राणिनां विचिन्त्यमानं मनसापि दुलभमेव चकास्ति । हिरवधारणे । किं तत् । सचन्द्रा रात्रिः, सकमलं मद्यम्, प्रियाया अनुरागः प्रीतिः, अभिनवं यौवनं च । अत्र द्वन्द्वशो युगलत्वेनान्त्यपदस्थितचकारेणैकक्रियानिवेशः । तदभावे दोषमाह—तेनेति । दुर्लभत्वविवक्षया दुःखमयत्वे गुणसमुच्चयोऽपीत्याह—अयमिति ॥

मिश्रः पुनरुभयपदाश्रयवद्बहुपदाश्रयश्च भवति । यथा—

‘आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् १४०’

अत्रादित्यचन्द्रादयो द्रव्यविशेषा उत्तरपदनिवेशिना प्रतिपदनिवेशिना च चकारण जानातीत्येकस्यां क्रियायां संनिवेश्यन्ते । तेन च बहुवचनाभावे समासाभावे चैष मिश्रः समुच्चयभेदो भवति ॥