गच्छेत्यादि । इह हे कान्त वल्लभ, चेद्यदि गच्छसि तदा गच्छ । विदेशमिति शेषः । मया न रोधः क्रियते । किंतु भवान्यत्र गतो भूयात्तत्रैव ममापि जन्म भूयादिति । परं वदामिति शेषः । अत्र गमनस्य विधिरूपस्य जन्म भूयादित्यनेन विधिरूपेणैव त्वयि गते मया मर्तव्यमिति मरणसूचनाद्विधिना गमनप्रतिषेधोक्तिः अन्यासंकरेण च शुद्धता ॥