499 कुचभरावरुद्धगताभ्यां न दृश्यते । अत्रानया नेत्राभ्यामन्यमीक्षमाणया यथाहं न दृष्ट इत्यहं क्षीणस्तथा मध्योऽपि तेनैव क्षीणतापन्न इति लक्ष्यते । इहापि किमो निषेधार्थत्वं युक्त्यैव ज्ञायते ॥

निषेध एवोक्त्या प्रतिकूलोऽनुकूलश्च यथा—

भ्रुकुटिरारचिता गतमग्रतो हृतमथाननमुक्तमसाधु वा ।
इयमतिप्रभुता क्रियते बलादकुपितोऽपि हि यत्कुपितो जनः १५६’

अत्र ‘अकुपितोऽपि कुपितः क्रियते’ इति योऽयं निषेधाक्षेपरूप उपालम्भः, तत्र च ‘भ्रुकुटिरारचिता—’ इत्यादिवैयात्येन प्रतिकूलं कारणमुपन्यस्य, ‘सेयमतिप्रभुता, सोऽयं बलात्कारः’ इति कक्वा वाचनिकमेवोपालम्भमभिधत्ते; तेनायमौक्तः प्रतिकूलश्च निषेधाक्षेपो रोध इत्युच्यते ॥ अयमेव चास्या अवैयात्योक्तिपक्षे स्वरूपाख्यानादौक्तोऽनुकूलनिषेधाक्षेपो रोधो भवति ॥

भ्रुकुटिरित्यादि । इयमतिप्रभुता बलात्कारः । हि यतोऽकोपवानपि जनो बलात्कारेण कोपवान् क्रियते । तदाह—त्वाया भ्रुकुटिर्भ्रूकौटिल्यमारचितम् । अग्रतोऽग्रे गतम् । अनन्तरमाननं चुम्बनादपहृतम् । असाधूक्तं च । वाशब्दश्चार्थे । अत्र धार्ष्ट्येन प्रतिकूलकारणमुपन्यस्य काक्वा वाचनिक एवोपालम्भः । अस्या अधार्ष्ट्यपक्षे स्वरूपाख्यानपरमिदमित्युक्तानुकूलनिषेधाक्षेपरोधोऽप्ययमित्याह—अयमिति ॥

यदा तु कारणमुपन्यस्यापि क्रियासूत्तिष्ठमानो न रूध्यते तदाक्षेप एव न रोधः ।

तद्यथा—

‘गमिआ कलम्बवाआ दिट्ठं मेहन्धआरिअं गअणअलम् ।
सहिओ गज्जिअसद्दो तह वि हु से णत्थि जीविए आसंगो ॥’
[गमिताः कदम्बवाता दृष्टं मेघान्धकारितं गगनतलम् ।
सोढो गर्जितशब्दस्तथापि खल्वस्य नास्ति जीवितेऽध्यवसायः ॥]

अत्र कदम्बवातातिवाहनादीनां जीविताध्यवसायहेतूनामुपन्यासेऽपि