धनमित्यादि । हे प्रिय, यद्यपि ते तव धनं बहु प्रचुरं लभ्यं प्राप्यम् । वर्त्मनि सुखम्; न दुर्गो मार्गः । क्षेमं कुशलं च चौराद्यनुपहतेः । न च मे प्राणसंशयोऽस्ति । तथापि त्वं मा गाः स्म मायासीः । ‘कुशलं क्षेममस्रियाम्’ इत्यमरः । अत्र प्रचुरधनलाभादिहेतूनां गमनपरत्वेनाक्षेपता ॥ इत्याक्षेपालंकारनिरूपणम् ॥