विरला इत्यादि । “विरला उपकृत्यैव निरपैक्षा जलधरा इव वर्तन्ते । क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव ॥” इह ये उपकृत्य उपकारं कृत्वा निरपेक्षाः प्रत्युपकारानपेक्षा वर्तन्ते ते विरला अल्पाः । मेघा इव । यथा मेधा उपकारं कृत्वा प्रत्युपकारनिस्पृहा वर्तन्ते तथेत्यर्थः । तेषामुपकारिणां विरहे विरला एव 504 क्षीयन्ते दुःखिता भवन्ति । नदीप्रवाहा इव । यथा नदीप्रवाहा उपकारिणां मेघानां विरहे क्षीणा भवन्ति तथेत्यर्थः । क्षीयन्त इति कर्मकर्तरि । क्षियोऽनात्मनेपदित्वात् । अवसदनमवसादः । भावे घञ् । अत्र मेघनदीप्रवाहयोर्मिथः समर्थयोः प्रत्यनीकभावः प्रतिपक्षता । प्रतिनिधिभूतमनीकं सैन्यं यस्य सः प्रत्यनीकः परिपन्थी । 'प्रति प्रतिनिधौ चिह्ने’ इति मेदिनीकारः । ‘अनीकोऽस्त्री रणे सैन्ये’ इति च ॥