ववसिअ इत्यादि । “व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम् । सुग्रीवेणोरः स्थलवनमालामृदितमधुकरमुपगूढः ॥” इह स विभीषणः सुग्रीवेणोपगूढ आलिङ्गितः । कीदृशः । व्यवसितस्य व्यवसायस्य निवेदितोऽर्थो येन सः । यद्वा व्यवसितश्चिकीर्षितो रामसाहाय्यरूपो निवेदितोऽर्थो येन सः । मारुतिना हनूमता लब्धप्रत्ययेन प्राप्तविश्वासेनागतहर्षं यथा स्यादेवमुरःस्थलस्य वनमालायां मृदिता मधुकरा यत्र तद्यथा स्यादेवमित्युपगूहनक्रियाया विशेषणद्वयम् । ‘प्रत्ययः सहजे ज्ञाने विश्वासाचारहेतुषु ।’ इति मेदिनीकारः । अत्र प्रधानक्रियाया विशेषणद्वयेन परिष्कृतत्वात्क्रियापरिकरत्वम् ॥