लक्षणपरिकरो यथा—
अत्र जघनस्थलादीनि लक्षणानि महाप्रथिम्नेत्यादिभिः परिष्क्रियन्ते; सोऽयं लक्षणपरिकरः ॥
महावाक्यस्थसंबन्धिपदैर्लक्षणादयो यत्र लक्ष्यन्ते स परिकर एवेत्युक्तं विवृणोति—लक्षणेति ॥ महेत्यादि । हे वयस्य मित्र, त्वं कथय सा कान्ता क्व वर्तते । कीदृशी । महान् प्रथिमा स्थूलत्वं यस्य तेन जघनस्थलेन लक्षिता । महाकुम्भिकुम्भस्थलादप्युच्चौ कुचौ यत्र तेन हृदयेन लक्षिता । दीर्घे, उज्ज्वले, निर्मले, लोले चपले चक्षुषी यत्र तेन मुखेन लक्षिता च । इह लक्षकपदानां संबन्धिभिर्विशेषणैः परिष्कारः ॥
हेतुपरिकरो यथा—
अत्र प्रथमतृतीयपादयोः ‘त्वया, त्वया’ इति हेतू द्वितीयचतुर्थपादाभ्यां परिष्क्रियेते; सोऽयं हेतुपरिकरः ॥
आदिपदग्राह्यं हेत्वादि । तत्र हेतावाह—हेत्विति । त्वयेत्यादि । त्वया जगन्ति पवित्राणि । त्वयि जनोक्तयोऽपुण्या अकुशलाः । त्वया लोका जना नाथवन्तः सरक्षकाः । त्वमनाथा अशरणा विपद्यसे विपन्ना भवसि । अत्र हेतुद्वयपरिष्कारो व्यक्त एव ॥
सहार्थपरिकरो यथा—