521

अर्थकृतो रूपके यथा—

‘विअडे गअणसमुद्दे दिअसे सूरेण मन्दरेण व महिए ।
णीइ मइरव्व संज्झा तिस्सा मग्गेण अमअकलसो व्व ससी ॥ १९० ॥’
[विकटे गगनसमुद्रे दिवसे सूर्येण मन्दरेणेव मथिते ।
निर्याति मदिरेव संध्या मार्गेणामृतकलश इव शशी ॥]

अत्र गगने समुद्रत्वेन रूपिते सूर्यसंध्याशशिभिः, मन्दरमदिराऽमृतकलशैश्च मथनादिक्रियानिवेशिभिरर्थैः परस्परोपमानात्साधर्म्यमुत्पादितमित्यर्थोऽयं रूपकपरिकरः ॥

विअडे इत्यादि । ‘विकटे गगनसमुद्रे मन्दरेणेव (महिते) मथिते । निर्गच्छति मदिरेव संध्या तस्या मार्गेणामृतकलश इव शशी ॥’ इह संध्या निर्गच्छति । विकटे महति गगनसमुद्रे मन्दरगिरिणेव रविणा दिवसे महिते पूजितेऽथ च मथिते सति मदिरेव यथा मन्दरमथिते समुद्रे मदिरा निर्गच्छति तथेत्यर्थः । तस्याः संध्याया मार्गेण यथा चन्द्रोऽमृतकलश इवास्ति निर्गच्छति वा । आकाङ्क्षाक्रमेण निर्गच्छतिरुभयान्वयी । अत्र सूर्यादिभिरर्थैरन्योन्योपमानात्साधर्म्योपपत्तिरित्यार्थोऽयम् ॥

उभयकृतश्च विरोधश्लेषे195 यथा—

‘रइअमुणालाहरणो णलिणदलत्थइअपीवरत्थणअलसो196 ।
वहइ पिअसंगमम्भि वि मअणाअप्पप्पसाहणं जुअइजणो ॥ १९१ ॥’
[रचितमृणालाभरणो नलिनदलस्थगितपीवरस्तनकलशः ।
वहति प्रियसंगमेऽपि मदनाकल्पप्रसाधनं युवतिजनः ॥]

अत्र ‘प्रियसंगमेऽपि मदनाकल्पप्रसाधनं भवति’ इति विरुद्धार्थयोः साधर्म्योत्पादनाय197 जले क्रीडतो युवतिजनस्य यथोक्तविशेषणाभ्यां

  1. ‘विरोधश्लेषयोः’ क ‘विरोधश्लेषो’ ख
  2. ‘च्छइअ’ ग घ
  3. अत्र ‘अन्येष्वपि दृश्यते’ इति भाव्यम् । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन जनिव्यतिरिक्तादपि धातोर्भवितुमर्हतीति वैयाकरणाः