अत्र ‘प्रियसंगमेऽपि मदनाकल्पप्रसाधनं भवति’ इति विरुद्धार्थयोः साधर्म्योत्पादनाय197 जले क्रीडतो युवतिजनस्य यथोक्तविशेषणाभ्यां 522 शब्दतोऽर्थतश्चोपस्कारः कृत इत्युभयकृतोऽयं विरोधश्लेषपरिकरः । एवमलंकारान्तरेष्वपि द्रष्टव्यम् ॥

  1. अत्र ‘अन्येष्वपि दृश्यते’ इति भाव्यम् । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन जनिव्यतिरिक्तादपि धातोर्भवितुमर्हतीति वैयाकरणाः