523 यद्वा पर्वतभेदिना पविना त्रायते इति पर्वतभेदिपवित्रस्तम् । हे नर नल इति संबोध्रनम् । रलयोरेकत्र स्मरणात् । कस्य बहुमतमीषन्मतं जैत्रं किंतु सर्वस्यैव संपूर्णमेव स्वीकृतम् । बहुमतमितीषदसमाप्तौ बहुच् । स चादौ भवति ‘विभाषा सुपो बहुच् पुरस्तात्तु ५।३।६८’ इति सूत्रेण । गहनं कठोरम् । हरिः सिंहस्तमिव पर्वतस्य । भिद्यत इति भेदो विवरम् । गुहेति यावत् । तत्संबद्धं तच्छायित्वात् । पवित्रं श्वेतं नरकस्य प्रशस्तपुंसोऽपि जेतारम् । बहुर्बहुमानविषयो मतङ्गो मुनिभेदो येषां ते बहुमतङ्गा हस्तिनस्तेषां पितृत्वेन तस्य पूज्यत्वात् तान् हन्ति तम् । हरिर्विष्णुस्तमिव । पर्वतस्य गोवर्धनस्य भेदकमुत्थापकत्वात् । पवेर्वज्रात् त्रः त्राणं यस्मात्तत् । विष्णुस्मरणस्य तदपि फलम् । नरकस्य दैत्यभेदस्य जैत्रम् । बहुमतङ्गान् हिंस्त्रान् हन्ति यस्तम् । हरिर्वायुस्तमिव सोऽप्यतिवेगित्वादद्रिभेदी, पवित्रः पवनत्वात् । अत एव नरकस्य कश्मलस्य निवारकः । बहूनां वातयोगिनां स्वीकृतः गहनः कष्टेन परिचेयश्च भवति । ‘इन्द्रे सिंहेऽनिले विष्णौ हरिः शमनसूर्ययोः ।’ इति शाश्वतः198 । अत्र हरिमिवेत्यादिशब्दरूपैकावल्या विशेषणत्वेन पयोरूपस्य कर्मकारकस्य परिष्कारः ॥

अर्थैकावली यथा—

‘किमिति कबरी यादृक् तादृग् दृशौ किमकज्जले न खलु लिखिताः पत्रावल्यः किमद्य कपोलयोः ।
अयमयमयं किंच क्लाम्यत्यसंस्मरणेन ते प्रियसखि सखीहस्तन्यस्तो विलासपरिच्छदः ॥ १९३ ॥’

अत्र ‘अयमयमयम्’ इति सर्वनामपरामृश्यमानया प्रागुपन्यस्तकारणभूतया ततोऽन्यया वा तथाविधयार्थैकावल्या ‘परिच्छदः’ इति कर्तृकारकमभिन्नार्थ इव परिष्क्रियते; सेयमर्थैकावली परिकरस्यैव भेदः ॥

किमित्यादि । हे शशिमुखि, सखीहस्तारोपितोऽयमयं विलासार्थं परिच्छदस्तवासंस्मरणेन किंचित्क्लाम्यति । तदाह—कबरी केशवेशः । किमिति यादृक् तादृक् । न रम्य इत्यर्थः । ‘कबरी केशवेशः स्यात्’ इत्यमरः । दृशौ नेत्रे अकज्जले

  1. शाश्वतकोषे तु ‘इन्द्रचन्द्राश्ववातार्कशुकभेकयमाहिषु । कपौ सिंहे सुवर्णाभे वर्णे विष्णौ हरिं विदुः ॥’ इति विद्यते ।