सलिलमित्यादि । जलं प्रफुल्लपद्मम, पद्मानि सुगन्धमधुना समृद्धानि । लीनं यदलिकुलं तेनाकुलं मधु, भ्रमरकुलमपीह वसन्ते मधुरणितं मधुना पुष्परसेन शब्दितं मधौ मधूकद्रुमे वा शब्दितम् । ‘मधु पुष्परसक्षौद्रमद्ये ना तु मधुद्रुमे’ इति मेदिनीकारः । अत्र क्षुद्रघण्टिकाक्रमेण संग्रथितानि सलिलादिपदान्यन्तःस्थिताधिकरणरूपद्रव्यवाचकेनेहेति पदेन दीप्यन्ते ॥