530 इह तु स्वतन्त्रं मालापुष्पवत् पदं पदेन युज्यमानं क्रियादिभिः संबध्यतइति 206ततो भिद्यते ॥

इमिणेत्यादि । “अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम् । कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम् ॥” इह सर्वत्र शोभत इति क्रियान्वयः । अत्रान्योन्यग्रथनया मालाक्रमस्तेन च प्रधानक्रियायां दीपनम् । परस्परग्रथनया रसनामालयोर्भेदं पृच्छति—क इति । उत्तरम् । पूर्वत्रेति । रसनायां सर्वत्र वृत्त्या छन्दसा छिन्नं भिन्नीभूतं पदं पदेन युज्यते । मालायां तु प्रत्येकमेव पदं पदेन युज्यत इत्यनयोर्भेद इत्यर्थ ॥

चक्रवालं यथा—

‘संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय207 येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च 208लोकत्रयम् ॥ २०६ ॥’

अत्र ‘संग्रामाङ्गणमागतेन भवता चापे समारोपिते’ इति भावलक्षणाक्षिप्तस्य भावविशेषस्य द्वितीयपादे कारकवीप्सया यत् संक्षेपेणाभिधानं तदेतच्चक्रवालाद्रिणेव मालादीपकेन विस्तारवता वेष्टितमिदं चक्रवालं नाम दीपकस्य भेदः ॥

संग्रामेत्यादि । विवृतोऽयं विस्तारगुणे । अत्र भावः क्रिया । सा च सामान्यलक्षणेन ज्ञाता विशेषमाक्षिपति । ज्ञानसामान्यस्य विशेषे जिज्ञासोदयात् तत्र च समारोपणरूपे कारंकजिज्ञासायां सामान्यत एव वीप्सयाभिधानं येनेति यदिति च । विस्तरवत्त्वैन चक्रवालादिसाम्यमस्य ॥ इति दीपकालंकारनिरूपणम् ॥

क्रमालंकारनिरूपणम् ।

क्रमलक्षणमाह—

शब्दस्य यदि वार्थस्य द्वयोरप्यनयोरथ ।
भणनं परिपाट्या यत् क्रमः स परिकीर्तितः ॥ ७९ ॥
  1. ‘ततोऽयं भिद्यते’ क ख
  2. ‘देवालोकय’ क पुस्तके
  3. ‘सप्ताब्धयः’ इत्यपि पाठः घ