534 कायाँ हस्तनेत्राधरमुखैर्निजसृष्टिरप्युत्सृष्टेव दत्तेव । पङ्कजादीनामपासनात् । तदेवाह—पङ्कजानि पद्मे कर्दमे न्यस्तानि । नीलाब्जानि ह्रदेऽगाधजले क्षिप्तानि । वृत्तौ वेष्टने बिम्बफलं न्यस्तम्, चन्द्रो गगने क्षिप्त इति । ‘स्रष्टा प्रजापतिर्वेधाः’ इत्यमरः । अत्र पङ्कजादीनां करादिना जये शाब्दक्रमः प्रधानीभूतोऽधिकरणानामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यार्थक्रमश्च न्यग्भूतोऽप्रधान इत्युभयक्रमेऽपि शब्दप्रधानता ॥

अर्थप्रधाना यथा—

‘गङ्गे देवि दृशा पुनीहि यमुने मातः पुनर्दर्शनं संप्रश्नोऽस्तु पितः प्रयाग भगवन्न्यग्रोध मां ध्यास्यसि ।
तं हारासिलतावतंसविपुलस्थूलंसवक्षोभुजं पुंभावं भवतामवन्तिनगरीनाथं दिदृक्षामहे ॥ २१२ ॥’

अत्र गङ्गायमुनाप्रयागन्यग्रोधतत्पुंभावावन्तिनगरीनाथलक्षणानामर्थानां मुख्यक्रमेण ‘ देवि दृशा पुनीहि’, ‘मातः पुनर्दर्शनम्’, ‘पितः संप्रश्नः’, ‘भगवन्मां ध्यास्यसि’ इति मुख्यक्रमेणैव संभ्रमद्भिर्वचोविशेषैरभ्यर्थ्य221 ‘भवतामेव पुंभावमवन्तिनगरीनाथं दिदृक्षामहे’ इति येयमभ्यर्थनाभङ्गिः सार्थपरिपाटीकृता तस्यां च ‘गङ्गे’ यमुने, प्रयाग, न्यग्रोध’ इति, ‘हारासिलतावतंसविपुलवक्षःस्थूलांस’ इति च शब्दपरिपाटी परस्परमुपमानोपमेयभूते न्यग्भवतः, सेयमर्थप्रधानोभयपरिपाटी क्रमः ॥

गङ्गेत्यादि । हे गङ्गे देवि, दृशा मां पुनीहि, हे मातर्यमुने, पुनर्दर्शनमस्तु, हे पितः प्रयाग, भवान् स्वाप्रश्नोऽस्तु सुसंवादोऽस्तु । हे भगवन् न्यग्रोध अक्षयवट, मां ध्यास्यसि, स्मरिष्यसि । तमवन्तिनगरीनाथमुज्जियिनीपतिं, भोजराजं नृपं वयं दिदृक्षामहे द्रष्टुमिच्छामः । कीदृशम् । हारखङ्गलताकर्णालंकारैर्विपुलाः पीनबाहुमूल्युक्तवक्षोभुजा यस्य तम् । भवतामेव पुंभावं पुरुषरूपम् । स्वाप्रश्न इति । स्वस्य

  1. ‘अभ्यर्चा’ क