414 त्तदा रूपकम् । कथमन्यस्यान्यबोधकतातिप्रसङ्गात् । तत्राह—गौणेति । गौणवृत्तिर्गैणी तदाश्रयणात् । तथा च गौणान्यस्यान्यबोधकता । एवं च यत्रोपमानोपमेयपदाभ्यामभेदो गुणादिपुरस्कारेण बोध्यते तत्र रूपकं, यत्र सादृश्यमात्रं तत्रोपमेति तयोर्भेदः ॥

विभागमाह—

शब्दार्थोभयभूयिष्ठभेदात्त्रधा तदुच्यते ।
शब्दभूयिष्ठमेतेषु प्रकृतं विकृतं तथा ॥ २५ ॥
अर्थभूयिष्ठमप्याहुः प्राधान्येङ्ग्यङ्ग्योर्द्विधा ।
द्विधैवोभयभूयिष्ठं शुद्धसंकीर्णभेदतः ॥ २६ ॥

शब्देति । प्रथमं यावद्रूपकं त्रिधा—शब्दभूयिष्ठार्थभूयिष्ठतदुभयभूयिष्ठभेदात् । तत्र शब्दभूयिष्ठं प्रकृतविकृतभेदाद्द्विध्य, अर्थभूयिष्ठमङ्गिप्रधानाङ्गप्रधानभेदाद्द्विधा, उभयभूयिष्ठमपि शुद्धसंकीर्णभेदाद्द्विधेति विभागः ॥

तत्र प्रकृतशब्दभूयिष्ठविभागमाह—

चतुर्धा प्रकृतं तेषु शब्दभूयिष्ठमुच्यते ।
समस्तं व्यस्तमुभयं सविशेषणमित्यपि ॥ २७ ॥

तेषु समस्तं यथा—

‘पाणिपद्मानि भूपानां संकोचयितुमीशते ।
त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥ २५ ॥’

अत्र ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६’ इति समासे पद्मानीव पद्मानि चन्द्रा इव चन्द्रा इत्यभेदोपचारेणोत्पन्नसादृश्यात्पाणीनां नखानां च पद्मचन्द्रादिभिरभिधाने सामान्येवादिशब्दाप्रयोगादुपमानार्थस्तिरोभूत इति सोऽयं गौणशब्दव्यपाश्रयः समासहेतुकः समस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः ॥

चतुर्धेति । पाणीति । त्वत्पादनखचन्द्राणामर्चिषस्तेजांसि भूपानां करकमलानि संकोचयितुं निमीलयितुमीशते समर्था भवन्ति । अर्चिषः कीदृश्यः ।