416 पुष्पम् । ‘नीरक्षीराम्बुशम्बरम्’ इत्यमरः । वादिव्यतिरेकादुपमातिरस्कारः । इह प्रथमं समस्तं ततोऽसमस्तमिति समस्तव्यस्तता ॥

सविशेषणं यथा—

‘हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः ।
जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः ॥ २८ ॥’

अत्र यथोक्तविशेषणविशिष्टो यो हरिपादो यश्च हरिहतासुरेभ्यो निःशङ्कानां सुराणामानन्दोत्सवे ध्वजस्तयोः सविशेषणयोरेव प्रतीयमानसादृश्ययोः परस्परमुपमानोपमेयभाव इति सविशेषणं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः । तदेतच्चतुष्टयमपि प्रकृतसमासादिशब्दैर्निबद्धमिति प्रकृतमुच्यते ॥

हरीत्यादि । शिरसि अग्रं लग्नं बलिवञ्चने त्रिविक्रमदशायां ब्रह्माण्डाप्तौ ब्रह्मणा पाद्यार्थमावर्जितं यज्जह्नुकन्याया गङ्गाया जलं तदेवांशुकं वस्त्रमिव यत्र तादृशो हरेर्वामनरूपस्य पादो बलिविजयादसुरेभ्यो निःशङ्कानां देवानां हर्षोत्सवे ध्वज एव जयति । अत एव जाह्नवीजलमंशुकत्वेन रूपितम्, तेन विना ध्वजानुपपत्तेः ‘शिरोऽग्रे मस्तकेऽपि च’ इति मेदिनीकारः । इह पादध्वजयोर्विशेषणवतोरेव रूपणात् सविशेषणरूपकता । प्रकृतत्वं प्रस्तुतत्वम् । तच्च समासादिभिरेवेति प्रकृतरूपकता ॥

विकृतशब्दभूयिष्ठं विभजते—

चतुरो विकृतस्यापि प्रभेदान्प्रतिजानते ।
परम्पराथ रशनामालारूपकरूपकम् ॥ २८ ॥

चतुर इति । विकृतस्यापि चतुरो भेदान् प्रतिजानते स्वीकुर्वन्ति । धीरा इति शेषः ॥

तेषु परम्परा यथा—

‘ववसाअरइप्पओसो रोसगइन्ददिढसिङ्खलापडिबन्धो ।
कह कह वि दासरहिणो जअकेसरिपञ्जरो गओ घणसमओ २९’
[व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः ।
कथं कथमपि दाशरथेर्जयकेसरिपञ्जरो गतो घनसमयः ॥